(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.95. अध्यायः 095
Mahabharata - Karna Parva - Chapter Topics
रणे कर्णस्यार्जुनसाम्यमसहमानेन भीमेन सकोपं पार्थप्रोत्साहनम्॥ 1 ॥


Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-95-0x(5059)(59638)
तौ शङ्खभेरीनिनदे समृद्धे
समीयतुः श्वेतहयौ नराग्र्यौ।
वैकर्तनः सूतपुत्रोऽर्जुनश्च
दुर्मन्त्रिते ते ससुतस्य राजन्॥ 8-95-1(59639)
`आशीविषावग्निमिवोत्सृजन्तौ
तथा मुखाभ्यामभिनिः श्वसन्तौ।
यशस्विनौ जज्वलतुर्मृधे तदा
घृतावसिक्ताविव हव्यवाहौ'॥ 8-95-2(59640)
यथा गजौ हैमवतौ प्रभिन्नौ
प्रवृद्धदन्ताविव वासितार्थे।
तथा समाजग्मतुरुग्रवीर्यौ
धनञ्जयश्चाधिरथिश्च वीरौ॥ 8-95-3(59641)
बलाहकेनेव महाबलाहको
यदृच्छया वा गिरिणा यथा गिरिः।
तथा धनुर्ज्यातलनेमिनिःस्वनौ
समीयतुस्ताविषुवर्षवर्षिणौ॥ 8-95-4(59642)
शरास्त्रशक्त्यृष्टिगदासिसर्पौ
रोषानिलोद्वूतमहोर्मिमालौ।
यथाऽचलौ द्वौ चलतस्तथा तौ
यथाऽर्णवौ चाशु चतुर्युगान्ते'॥ 8-95-5(59643)
प्रवृद्धशृङ्गद्रुमवीरुदोषधी
प्रवृद्वनानाविधनिर्झरौघौ।
यथाऽचलौ वा चलितौ महाजलै--
स्तथा महास्त्रैरितरेतरं हतः॥ 8-95-6(59644)
स सन्निपातो रथयोर्महानभू--
त्सुरेशवैरोचनयोर्यथा पुरा।
शरैर्विनुन्नाश्वनियन्तृदेहयोः
सुदुःसहास्त्रैः परिभिन्नदेहयोः॥ 8-95-7(59645)
प्रभूतपद्मोत्पलमत्स्यकच्छपौ
महाहदौ पक्षिगणानुनादितौ।
सुसन्निकृष्टावनिलोद्धतौ यथा
तथा रथौ तौ ध्वजिनौ समीयतुः॥ 8-95-8(59646)
उभौ महेन्द्रस्य समानविक्रमा--
वुभौ महेन्द्रप्रतिमौ महारथौ।
महेन्द्रवज्रप्रतिमैश्च सायकै--
र्महेन्द्रवृत्राविव सम्प्रजघ्नतुः॥ 8-95-9(59647)
सनागपत्त्यश्वरथे उभे बले
विचित्रवर्माभरणाम्बरायुधे।
चकम्पतुश्चोन्नदतुश्च विस्मया--
द्धरा वियच्चार्जुनकर्णसङ्गमे॥ 8-95-10(59648)
भुजाः सवस्त्राङ्गुलयः समुच्छ्रिताः
ससिंहनादैर्हृषितैर्दिदृक्षुभिः।
यदाऽर्जुनं मत्त इव द्विपो द्विपं
समभ्ययादाधिरथिर्जिघांसया॥ 8-95-11(59649)
उदक्रोशन्सोमकास्तत्र पार्थं
त्वरस्व याह्यर्जुन भिन्धि कर्णम्।
छिन्ध्यस्य मूर्धानमलं चिरेण
श्रद्धां च राज्याद्वृतराष्ट्रसूनोः॥ 8-95-12(59650)
तथाऽस्माकं बहवस्तत्र योधाः
कर्णं तथा याहि याहीत्यवोचन्।
जह्यर्जुनं कर्ण ततः सुदीनाः
पुनर्वनं यान्त्वचिराय पार्थाः॥ 8-95-13(59651)
कर्णोऽथ पूर्वं दशभिः पृषत्कै--
र्गाण्डीवधन्वानमविध्यदाशु।
जघान तं चापि ततः किरीटी
शरैस्तदाष्टादशभिः सुमुक्तैः॥ 8-95-14(59652)
पुनश्च कर्णस्त्वरितोऽपि पार्थं
रथेषुभिस्तं दशभिर्जघान।
तं चापि पार्थो दशभिः शिताग्रैः
कक्ष्यान्तरे तीक्ष्णमुखैरविध्यत्॥ 8-95-15(59653)
कर्णस्ततो भारत साम्पराये
घोरेऽतिवेलं रणसंविमर्दी।
जघान पार्थं नवभिः शिताग्रैः
कक्ष्यान्ते नागमिव प्रभिन्नम्॥ 8-95-16(59654)
ततोऽपराभ्यां युधि सूतपुत्रो
द्वाभ्यां क्षुराभ्यां हरिमाशुकारी।
समाजघान त्वरया महात्मा
यथा सुरेन्द्रं नमुचिः प्रसह्य॥ 8-95-17(59655)
तं पाण़्डवः पञ्चभिरायसाग्रै--
राकर्णपूर्णैर्निजघान कर्णम्।
ते शोणितं तस्य पपुस्तदानीं
कालस्य दूता इव पार्थबाणाः॥ 8-95-18(59656)
कर्णोऽपि पार्थं सह वासुदेवं
समाचिनोद्भारत वत्सदन्तैः।
परस्परं तौ विशिखैः प्रमुक्तै--
स्ततक्षतुः सूतपुत्रोऽर्जुनश्च॥ 8-95-19(59657)
परस्परं छिद्रदिदृक्षया च
सुभीममभ्याययतुः प्ररुष्टौ॥ 8-95-20(59658)
ततोऽस्त्रमाग्नेयममित्रतापनं
मुमोच कर्णाय सुरेश्वरात्मजः।
धनञ्जयात्संयुगमूर्ध्नि निःसृतं
तदा प्रजज्वाल तदस्त्रमुत्तमम्॥ 8-95-21(59659)
समीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं
स वारुणं तत्प्रशमार्थमाहवे।
समुत्सृजत्सूतपुत्रः प्रतापवान्
स तेन वह्निं शमयाञ्चकार॥ 8-95-22(59660)
वलाहकास्त्रेण दिशस्तरस्वी
चकार सर्वास्तिमिरेण संवृताः।
अपावहन्मेघगणांस्ततस्तान्
समीरणास्त्रेण समीरितेन॥ 8-95-23(59661)
ततः सोऽस्त्रं दयितं देवराज्ञः
प्रादुश्चक्रे वज्रममित्रतापनः।
गाण्डीवज्या विमृशंश्चातिमन्यु--
र्धनञ्जयः शत्रुसङ्घप्रमाथी॥ 8-95-24(59662)
नाराचनालीकवराहकर्णा
गाण्डीवतः प्रादुरासन्सुतीक्ष्णाः।
सहस्रशो वज्रसमानवेगा--
स्ते सर्वतः पर्यधावन्त घोराः॥ 8-95-25(59663)
पार्थेषवः कर्णरथं विलग्ना
अधोमुखाः पक्षिगणा दिनान्ते।
निशानिकेतार्थमिवाशु वृक्षं
जग्राह तान्सूतपुत्रः पृषत्कैः॥ 8-95-26(59664)
क्षिप्तांस्तथा पाण्डवबाणसङ्घा--
नमृष्यमाणस्य धनञ्जयस्य।
रणाजिरे त्वन्तकतुल्यकर्मा
वैकर्तनो रोषपरीतचेताः॥ 8-95-27(59665)
ज्योतिष्प्रभां यद्वदुपागतः स--
न्दिवाकरो नाशयते क्षणेन।
पार्थस्य तान्बाणगणान्समग्रा--
न्व्यनाशयद्युध्यत एव कर्णः॥ 8-95-28(59666)
रोषात्प्रदीप्तः सुमहाविमर्दे
भीमस्ततोऽक्रुध्यददीनसत्वः।
पाणिं स्वपाणौ स विनिष्पिष्य रोषा--
दमर्षितो वाक्यमुवाच पार्थम्॥ 8-95-29(59667)
त्वां सूतपुत्रो नु कथं किरीटि--
न्रथेषुभिर्हन्ति शिताग्रधारैः।
धृत्या हि भूतानि ययाऽजयस्त्वं
ग्रासं ददत्खाण्डवे पावकाय॥ 8-95-30(59668)
धृत्या तया सूतपुत्रं जहि त्व--
महं वैनं गदया पोथयिष्ये।
समेत्य पार्थं सुनृशंसवादी
जीवन्नायं यास्यति कालपक्वः॥ ॥ 8-95-31(59669)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे म़ञ्जनवतितमोऽध्यायः॥ 95 ॥

Mahabharata - Karna Parva - Chapter Footnotes
8-95-6 हतः जघ्नतुरित्यर्थः॥ 8-95-7 सुदुःसहान्यैः परिशोणितोदकैः इति क.ट.पाठः॥ 8-95-31 मा जीवनं यास्यति सूतपुत्र इति क.पाठः॥ 8-95-95 पञ्चनवतितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.